Wednesday, 29 July 2015

A few lines on fire

अग्निः पञ्चभूतेषु अन्यतमः तथा तेजसः अभिमानिदैवतम् । अयं भगवतः मुखात् समुत्पन्नः । दक्षप्रजापतेः आत्मजा स्वाहा अग्निदेवस्य पत्नी ।इक्ष्वाकुवंशसमुद्भूतस्य दुर्योधनस्यात्मजा सुदर्शना अस्य अपरा पत्नी । अर्जुनस्याश्रये खाण्डववनं दग्धवान् । तदवसरे अग्निः अर्जुनाय कपिध्वजोपेतंरथं,गाण्डीवधनुः,अक्षयतूणीरञ्च प्रायच्छत् । अग्निना एव श्रीकृष्णाय चक्रायुधं प्रदत्तम् । अयं भृगुमुनेः शापकारणेन सर्वभक्षकोऽभवत् । इन्द्राय यदा ब्रह्मवधदोषः सम्प्राप्तः तदा दोषस्य चतुर्षु अंशेषु एकः अंशः अग्निना स्वीकृतः । रामायणे,सीतायाः पातिव्रत्यम् अग्निना लोकमुखायोपदर्शितम् । अनलः इति तस्यापरं नाम ।|नास्ति अलं पूर्तिः अस्य भुञ्जानस्य इति कारणेन अनलः इत्युच्यते ।

अग्नेः स्वरूपं 

हिन्दूपरम्परायां रक्तवर्णयुक्तस्य,मुखद्वयोपेतस्य,कृष्णनेत्राभ्यां युक्तस्य,पादत्रयोपेतस्य,सप्तभुजयुक्तस्य च अग्नेः रूपं चित्रितम् । अस्य शरीरे च प्रखराः सप्त जिह्वाः ज्वलन्ति । अतः अस्य सप्तजिह्वा इति अपरं नाम ।

जन्म

’त्रीणि जाना परिभूषन्त्यस्य
समुद्र एकं दिव्येकमप्सु । (१-९५-३)
अग्नेः जन्मत्रयम् – समुद्रे (बडबाग्नि)रूपेण, द्युलोके आदित्यात्मरूपेण, अन्तरिक्षे वैद्युताग्निरूपेण च । अस्य अनेकानि जन्मस्थानानि अपि वर्णितानि । पृथिव्याम् अयम् आरण्योः उत्पन्नः भवति । ’आरण्योर्निहितो जातवेदाः’ (३-२९-२) – सर्वविषयज्ञानवान् अग्निः द्वयोः आरण्योः निगूढः अस्ति । आरण्यौ अस्य मातरौ इति वदति – ’अयो मात्रोरुशेन्यो जनिष्ठ’ (३७-३-९) ’शुष्काद्यद्देव जीवो जनिष्ठाः’ (१-६८-२) इत्युक्त्वा दश युवतयः एनं आरण्योः उत्पादितवत्यः इत्युच्यते यत् दश अङ्गुलीभिः ग्रहणं निर्दिशति । ’दशेमं त्वष्टुर्जनयन्त गर्भम् अतन्द्रासो युवतयो विभृत्रम्’ (१-९५-२) ।


Essay on computer

सङ्गणकं किञ्चिद् अभिकलकयन्त्रं भवति। सङ्गणकं गणिताशास्त्रस्य तर्कशास्त्रस्य सङ्क्रियाः स्वचालितविधिना कर्तुं 

शक्नोति। सङ्गणकं केवलम् 'आम्', '' इत्येते ज्ञातुं शक्नोति। तस्य भाषायाम् '' अङ्कस्य अर्थः '' अस्ति, '' अङ्कस्य 

अर्थः 'आम्' अस्ति च। आं इति सङ्केताभ्यां सङ्गणकं कार्याणि करोति। तस्य द्वौ भागौ स्तःतन्त्रांशःयन्त्रांशः च। 

तन्त्रांशः एव यन्त्रांशं कार्य कर्तुम् आदेशं यच्छति। आधुनिके युगे सङ्गणकानि विना जीवनं सम्भवति। गणकयन्त्रं तु 

एकम् विद्युन्मानयन्त्रं वर्तते एकविंशतितमं शतकं गणकयन्त्रयुगनाम्ना निर्दिश्यते अद्यत्वे गणकयन्त्रेण विना जगति 

किमपि प्रचलति जगच्च अग्रे सरति। यथा धूमशकटयानस्य, लोकयानस्य चीटिकादानादारभ्य 

वित्तकोशीयव्यवहारपत्राणां सज्जतापर्यन्तं सर्वाणि कार्याणि गणकयन्त्रसाहाय्येन एव प्रचलन्ति पुरातनकाले मानवः 

अश्मायुधेन मृगयया स्वकीयम् आहारं सम्पादयति स्म अतः तद्युगं शिलायुगम् इति कथ्यते स्म तदनन्तरं 

कालक्रमेण अश्मायुधं परित्यज्य शराग्रे तीक्ष्णलोहभागं विधाय, परशोः साहाय्येन वा आहारं प्राप्य उदरम्भरणं करोति स्म  

तद्युगं लोहयुगमिति कथ्यते स्म कालान्तरेण यथा यथा विज्ञानस्य प्रगतिः अभवत् तथा तथा नूतनानि उपकरणानि 

आविष्कृतानि अनेकानि औषधानि संशोधितानि अधुना मानवः गगने खगः इव विमानयानेन उड्डयनं यथा तथा अर्णवे 

अन्तर्जलगामिन्या मत्स्य इव तरणं कर्तुम् शक्नोति