अग्निः पञ्चभूतेषु अन्यतमः तथा तेजसः अभिमानिदैवतम् । अयं भगवतः मुखात् समुत्पन्नः । दक्षप्रजापतेः आत्मजा स्वाहा अग्निदेवस्य पत्नी ।इक्ष्वाकुवंशसमुद्भूतस्य दुर्योधनस्यात्मजा सुदर्शना अस्य अपरा पत्नी । अर्जुनस्याश्रये खाण्डववनं दग्धवान् । तदवसरे अग्निः अर्जुनाय कपिध्वजोपेतंरथं,गाण्डीवधनुः,अक्षयतूणीरञ्च प्रायच्छत् । अग्निना एव श्रीकृष्णाय चक्रायुधं प्रदत्तम् । अयं भृगुमुनेः शापकारणेन सर्वभक्षकोऽभवत् । इन्द्राय यदा ब्रह्मवधदोषः सम्प्राप्तः तदा दोषस्य चतुर्षु अंशेषु एकः अंशः अग्निना स्वीकृतः । रामायणे,सीतायाः पातिव्रत्यम् अग्निना लोकमुखायोपदर्शितम् । अनलः इति तस्यापरं नाम ।|नास्ति अलं पूर्तिः अस्य भुञ्जानस्य इति कारणेन अनलः इत्युच्यते ।
अग्नेः स्वरूपं
हिन्दूपरम्परायां रक्तवर्णयुक्तस्य,मुखद्वयोपेतस्य,कृष्णनेत्राभ्यां युक्तस्य,पादत्रयोपेतस्य,सप्तभुजयुक्तस्य च अग्नेः रूपं चित्रितम् । अस्य शरीरे च प्रखराः सप्त जिह्वाः ज्वलन्ति । अतः अस्य सप्तजिह्वा इति अपरं नाम ।
जन्म
’त्रीणि जाना परिभूषन्त्यस्य
समुद्र एकं दिव्येकमप्सु । (१-९५-३)
समुद्र एकं दिव्येकमप्सु । (१-९५-३)
अग्नेः जन्मत्रयम् – समुद्रे (बडबाग्नि)रूपेण, द्युलोके आदित्यात्मरूपेण, अन्तरिक्षे वैद्युताग्निरूपेण च । अस्य अनेकानि जन्मस्थानानि अपि वर्णितानि । पृथिव्याम् अयम् आरण्योः उत्पन्नः भवति । ’आरण्योर्निहितो जातवेदाः’ (३-२९-२) – सर्वविषयज्ञानवान् अग्निः द्वयोः आरण्योः निगूढः अस्ति । आरण्यौ अस्य मातरौ इति वदति – ’अयो मात्रोरुशेन्यो जनिष्ठ’ (३७-३-९) ’शुष्काद्यद्देव जीवो जनिष्ठाः’ (१-६८-२) इत्युक्त्वा दश युवतयः एनं आरण्योः उत्पादितवत्यः इत्युच्यते यत् दश अङ्गुलीभिः ग्रहणं निर्दिशति । ’दशेमं त्वष्टुर्जनयन्त गर्भम् अतन्द्रासो युवतयो विभृत्रम्’ (१-९५-२) ।